स्कन्ध 8, अध्याय 24: देवीपूजनविधिनिरूपणम्, Verse 1
८.२४ चतुर्विंशोऽध्यायः ।
देवीपूजनविधिनिरूपणम् ।
नारद उवाच ।
धर्मश्च कीदृशस्तात देव्याराधनलक्षणः ।
कथमाराधिता देवी सा ददाति परं पदम् ॥ १॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.२४ चतुर्विंशोऽध्यायः ।
देवीपूजनविधिनिरूपणम् ।
नारद उवाच ।
धर्मश्च कीदृशस्तात देव्याराधनलक्षणः ।
कथमाराधिता देवी सा ददाति परं पदम् ॥ १॥
आराधनविधिः को वा कथमाराधिता कदा ।
केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ २॥
श्रीनारायण उवाच ।
देवर्षे शृणु चित्तैकाग्र्येण मे विदुषां वर ।
यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ ३॥
स्वधर्मो यादृशः प्रोक्तस्तं च मे शृणु नारद ।
अनादाविह संसारे देवी सशृजिता स्वयम् ॥ ४॥
परिपालयते घोरसङ्कटादिषु सा मुने ।
सा देवी पूज्यते लोकैर्यथावत्तद्विधिं शृणु ॥ ५॥
प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् ।
घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा ॥ ६॥
द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् ।
शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ ७॥
तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि ।
क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ ८॥
चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च ।
अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ ९॥
पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् ।
तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ १०॥
षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि ।
ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ ११॥
सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च ।
गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ १२॥
नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् ।
ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ १३॥
नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च ।
दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ १४॥
दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने ।
ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ १५॥
एकादश्यां दधि तथा देव्यै चार्पयते तु यः ।
ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ १६॥
द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् ।
तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ १७॥
त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च ।
तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ १८॥
चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति ।
तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ १९॥
पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति ।
ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ २०॥
तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने ।
तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ २१॥
रविवारे पायसं च नैवेद्यं परिकीर्तितम् ।
सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ २२॥
बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज ।
गुरुवारे शर्करां च सितां भार्गववासरे ॥ २३॥
शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् ।
सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ २४॥
घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् ।
दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ २५॥
कंसारं वटपत्रं च घृतपूरमतः परम् ।
वटकं कोकरसकं पूरणं मधु सूरणम् ॥ २६॥
गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् ।
अपूपं नवनीतं च मुद्गं मोदक एव च ॥ २७॥
मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद ।
विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ २८॥
पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका ।
गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ २९॥
नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् ।
पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ ३०॥