स्कन्ध 8, अध्याय 23: अवशिष्टनरकवर्णनम्, Verse 1
८.२३ त्रयोविंशोऽध्यायः ।
अवशिष्टनरकवर्णनम् ।
श्रीनारायण उवाच ।
ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च ।
दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ १॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.२३ त्रयोविंशोऽध्यायः ।
अवशिष्टनरकवर्णनम् ।
श्रीनारायण उवाच ।
ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च ।
दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ १॥
ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे ।
योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि ॥ २॥
अनाकाशेऽधःशिरसस्तदवीचीतिनामके ।
यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ॥ ३॥
अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः ।
म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते ॥ ४॥
यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव ।
सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि ॥ ५॥
प्रमादतस्तु तेषां वै निरये परिपातनम् ।
कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने ॥ ६॥
वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव ।
सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः ॥ ७॥
विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् ।
वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥ ८॥
स नीयते यमभटैः क्षारकर्दमनामके ।
निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते ॥ ९॥
ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः ।
स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥ १०॥
पशवो निहितास्ते तु यमसद्यनि सङ्गताः ।
सौनिका इव ते सर्वे विदार्य शितधारया ॥ ११॥
असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने ।
यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥ १२॥
अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक ।
वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून् ॥ १३॥
शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव ।
पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह ॥ १४॥
शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः ।
तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः ॥ १५॥
पीडिता आत्मशमलं बहुधा संस्मरन्ति हि ।
ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥ १६॥
यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि ।
दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः ॥ १७॥
पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् ।
यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥ १८॥
येऽवटेषु कुसूलादिगुहादिषु निरुन्धते ।
तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥
१९
तेष्वेवोपविशित्वा च सगरेण च वह्निना ।
धूमेन च निरुन्धन्ति पापकर्मरतान्नरान् ॥ २०॥
योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा ।
पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः ॥ २१॥
तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः ।
अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः ॥ २२॥
गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि ।
य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः ॥ २३॥
तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः ।
चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया ॥ २४॥
शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति ।
ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः ॥ २५॥
सूचीमुखे च नरके पात्यते निजकर्मणा ।
वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥ २६॥
किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि ।
एते बहुविधा विप्र नरकाः पापकर्मणाम् ॥ २७॥
नराणां शतशः सन्ति यातनास्थानभूमयः ।
सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि ॥ २८॥
विशन्ति नरकानेतान्यातनाबहुलान्मुने ।
तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान् ॥ २९॥
स्वधर्मो बहुधा गीतो यथा तव महामुने ।
देवीपूजनरूपो हि देव्याराधनलक्षणः ॥ ३०॥