स्कन्ध 8, अध्याय 22: नरकप्रदपातकवर्णनम्, Verse 1
८.२२ द्वाविंशोऽध्यायः ।
नरकप्रदपातकवर्णनम् ।
नारद उवाच ।
कर्मभेदाः कतिविधाः सनातनमुने मम ।
श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ १॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.२२ द्वाविंशोऽध्यायः ।
नरकप्रदपातकवर्णनम् ।
नारद उवाच ।
कर्मभेदाः कतिविधाः सनातनमुने मम ।
श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ १॥
श्रीनारायण उवाच ।
यो वै परस्य वित्तानि दारापत्यानि चैव हि ।
हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ २॥
कालपाशेन सम्बद्धो याम्यैरतिभयानकैः ।
तामिस्रनामनरके पात्यते यातनास्पदे ॥ ३॥
ताडनं दण्डनं चैव सन्तर्जनमतः परम् ।
याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ ४॥
मूर्च्छामायाति विवशो नारकी पद्मभूसुत ।
यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ ५॥
अन्धतामिस्रनरके पात्यते यमकिङ्करैः ।
पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ ६॥
नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः ।
वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह ॥ ७॥
तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः ।
एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ ८॥
पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः ।
एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ ९॥
रौरवे नाम नरके सर्वसत्त्वभयावहे ।
इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ १०॥
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ।
तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ ११॥
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ।
एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ १२॥
यातनां प्राप्यमाणो हि यः परं देहसम्भवः ।
क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ १३॥
य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि ।
उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ १४॥
कुम्भीपाके तप्ततैले उपर्यपि च नारद ।
यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ १५॥
पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके ।
अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ १६॥
क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः ।
आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ १७॥
निजवेदपथाद्यो वै पाखण्डं चोपयाति च ।
अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ १८॥
असिपत्रवनं नाम नरकं वेशयन्ति च ।
कशया प्रहरन्त्येव नारकी तद्गतस्तदा ॥ १९॥
इतस्ततो धावमान उत्तालमतिवेगतः ।
असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ २०॥
सञ्छिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः ।
वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ २१॥
स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः ।
यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ २२॥
द्विजे शरीरदण्डं च पापीयान्नारकी च सः ।
नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ २३॥
विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् ।
आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ २४॥
स पीड्यमानो बहुधा वेदनां यात्यतीव हि ।
विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ २५॥
ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् ।
स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ २६॥
तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः ।
सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ २७॥
मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते ।
परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ २८॥
यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः ।
अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ २९॥
स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने ।
नरकाधमके दुष्टकर्मणा परिपात्यते ॥ ३०॥