स्कन्ध 8, अध्याय 20: तलातलादिलोकवर्णनेऽनन्तवर्णनम्, Verse 1
८.२० विंशोऽध्यायः ।
तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।
श्रीनारायण उवाच ।
ततोऽधस्ताद्विवरकं तलातलमुदीरितम् ।
दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.२० विंशोऽध्यायः ।
तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।
श्रीनारायण उवाच ।
ततोऽधस्ताद्विवरकं तलातलमुदीरितम् ।
दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ १॥
त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः ।
देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥ २॥
आचार्यो मायिनां सोऽयं नानामायाविशारदः ।
पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥ ३॥
ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् ।
सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥ ४॥
अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते ।
कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥ ५॥
महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः ।
पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥ ६॥
स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः ।
प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः ॥ ७॥
ततोऽधस्ताच्च विवरे रसातलसमाह्वये ।
दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ ८॥
निवातकवचा नाम हिरण्यपुरवासिनः ।
कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥ ९॥
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा ।
सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ १०॥
बिलेशया इव सदा विवरे निवसन्ति हि ।
ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ ११॥
मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह ।
ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥ १२॥
वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च ।
धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च ॥ १३॥
शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः ।
महामर्षा महाभोगा निवसन्ति विषोल्बणाः ॥ १४॥
पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः ।
केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे ॥ १५॥
सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः ।
पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः ॥ १६॥
विधमन्ति च देवर्षे सदा सञ्जातमन्यवः ।
अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे ॥ १७॥
योजनैः परिसङ्ख्याते तामसी भगवत्कला ।
अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता ॥ १८॥
अहमित्यभिमानस्य लक्षणं यं प्रचक्षते ।
सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः ॥ १९॥
इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः ।
अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके ॥ २०॥
पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते ।
यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः ॥ २१॥
चराचरं भ्रुवोरन्तर्विवरादुदपद्यत ।
साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥ २२॥
त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् ।
उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः ॥ २३॥
यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले ।
विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम् ॥ २४॥
एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः ।
प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥ २५॥
स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि ।
सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च ॥ २६॥
नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः ।
विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा ॥ २७॥
रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः ।
चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः ॥ २८॥
तदभिमर्षसञ्जातकामावेशसमायुताः ।
ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च ॥ २९॥
अनुरागमदोन्मत्तविघूर्णारुणलोचनम् ।
करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥ ३०॥