स्कन्ध 8, अध्याय 19: अतलवितलसुतललोकवर्णनम्, Verse 1
८.१९ एकोनविंशोऽध्यायः ।
अतलवितलसुतललोकवर्णनम् ।
श्रीनारायण उवाच ।
प्रथमे विवरे विप्र अतलाख्ये मनोरमे ।
मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ १॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१९ एकोनविंशोऽध्यायः ।
अतलवितलसुतललोकवर्णनम् ।
श्रीनारायण उवाच ।
प्रथमे विवरे विप्र अतलाख्ये मनोरमे ।
मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ १॥
षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः ।
मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ २॥
जृम्भमाणस्य यस्यैव बलस्य बलशालिनः ।
स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ ३॥
पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः ।
या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ ४॥
रसेन हाटकाख्येन साधयित्वा प्रयत्नतः ।
स्वविलासावलोकानुरागस्मितविगूहनैः ॥ ५॥
संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः ।
यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ ६॥
ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् ।
आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ ७॥
एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद ।
द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ ८॥
भूतलाधस्तले चैव वितले भगवान्भवः ।
हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ ९॥
प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च ।
भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ १०॥
भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा ।
समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ ११॥
तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ।
दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ १२॥
तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् ।
पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ १३॥
महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् ।
त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ १४॥
त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् ।
इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ १५॥
तमेव देवदेवेशमाराधयति भक्तितः ।
व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ १६॥
भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे ।
वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ १७॥
वासुदेवे भगवति पुरुषार्थप्रदे हरौ ।
एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ १८॥
यस्यैव देवदेवस्य नामापि विवशो गृणन् ।
स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ १९॥
यत्क्लेशबन्धहानाय साङ्ख्ययोगादिसाधनम् ।
कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ २०॥
न चायं भगवानस्माननुजग्राह नारद ।
मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ २१॥
सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् ।
यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ २२॥
याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् ।
अप्राप्तान्योपाय ईशः पाशैर्वारुणसम्भवैः ॥ २३॥
बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् ।
असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ २४॥
प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् ।
त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ २५॥
आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि ।
अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ २६॥
दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः ।
पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ २७॥
पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः ।
तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ २८॥
अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति ।
एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ २९॥
सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् ।
एकदा दिग्विजये राजा रावणो लोकरावणः ॥ ३०॥