स्कन्ध 8, अध्याय 18: राहुमण्डलाद्यवस्थानवर्णनम्, Verse 1
८.१८ अष्टादशोऽध्यायः ।
राहुमण्डलाद्यवस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१८ अष्टादशोऽध्यायः ।
राहुमण्डलाद्यवस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १॥
सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः ।
अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ २॥
यददस्तरणेर्बिम्बं तपतो योजनायुतम् ।
तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ ३॥
त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः ।
यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ ४॥
सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः ।
तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ ५॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।
तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ ६॥
मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः ।
आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ ७॥
उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् ।
ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ ८॥
सिद्धानां चारणानां च विद्याध्राणां च सत्तम ।
योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ ९॥
ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् ।
पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ १०॥
अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि ।
यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ ११॥
ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम ।
पृथिवी परिसङ्ख्याता सुपर्णश्येनसारसाः ॥ १२॥
हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः ।
भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ १३॥
अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः ।
एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ १४॥
अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः ।
अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ १५॥
तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् ।
महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ १६॥
सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः ।
एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ १७॥
कामभोगैश्वर्यसुखसमृद्धभुवनेषु च ।
नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ १८॥
दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः ।
नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ १९॥
सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः ।
ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ २०॥
निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः ।
मयेन मायाविभुना येषु येषु च निर्मिताः ॥ २१॥
पुरः प्रकामशो भक्ता मणिप्रवरशालिनः ।
विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ २२॥
सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः ।
नागासुराणां मिथुनैः सपारावतसारिकैः ॥ २३॥
कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः ।
अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ २४॥
मनःप्रसन्नकारीणि फलपुष्पविशालिभिः ।
ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ २५॥
नानाविहङ्गमव्रातसंयुक्तजलराशिभिः ।
स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ २६॥
जलजन्तुक्षुब्धनीरनीरजातैरनेकशः ।
कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ २७॥
तेषु कृतनिकेतानां विहारैः सङ्कुलानि च ।
इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ २८॥
अमराणां च परमां श्रियं चातिशयन्ति च ।
यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ २९॥
यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः ।
नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ ३०॥