Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 1

८.१७ सप्तदशोऽध्यायः ।

ध्रुवमण्डलसंस्थानवर्णनम् ।

श्रीनारायण उवाच ।

अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः ।

लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 2

महाभागवतः श्रीमान् वर्तते लोकवन्दितः ।

औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ २॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 3

धर्मेण सह चैवास्ते समकालयुजा ध्रुवः ।

बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 4

आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् ।

ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 5

कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा ।

अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 6

भासते भासयन्भासा स्वीयया देवपूजितः ।

मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 7

मण्डलानि चरन्तीमे सवनत्रितयेन च ।

एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 8

अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः ।

ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 9

आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव ।

कर्मसारथयो वायुवशगाः सर्व एव ते ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 10

एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च ।

संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 11

ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् ।

सोपयोगं भगवतो योगधारणकर्मणि ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 12

यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने ।

पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 13

लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः ।

अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 14

धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः ।

दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 15

उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च ।

दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 16

कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि ।

समसङ्ख्याश्चावयवा भवन्ति कजनन्दन ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 17

अजवीथी पृष्ठभागे आकाशसरिदौदरे ।

पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 18

आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः ।

अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 19

यथासङ्ख्यं च देवर्षे श्रुतिश्च जलभं तथा ।

कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 20

धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः ।

मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 21

युञ्जीत वामपार्श्वीयवङ्क्रिषु क्रमतो मुने ।

तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 22

दक्षपार्श्वे वङ्क्रिकेषु प्रातिलोम्येन योजयेत् ।

शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 23

अगस्तिश्चोत्तरहनावधरायां हनौ यमः ।

मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 24

बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः ।

नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 25

स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः ।

बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 26

सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः ।

एतद्भगवतो विष्णोः सर्वदेवमयं वपुः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 27

सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः ।

निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 28

नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 29

ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् ।

नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 8, अध्याय 17: ध्रुवमण्डलसंस्थानवर्णनम्, Verse 30

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ ८.१७॥