स्कन्ध 2, अध्याय 1: मस्त्यगन्धोत्पत्तिवर्णनम्, Verse 1
२ श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः २.१ प्रथमोऽध्यायः ।
मस्त्यगन्धोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।
सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
२ श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः २.१ प्रथमोऽध्यायः ।
मस्त्यगन्धोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।
सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १॥
माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च ।
विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ २॥
तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता ।
ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ ३॥
तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत ।
विस्तरेण महाभाग कथां परमपावनीम् ॥ ४॥
उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः ।
श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ ५॥
सूत उवाच ।
प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् ।
आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ ६॥
यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती ।
व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ ७॥
सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये ।
स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ ८॥
राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः ।
चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ ९॥
तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् ।
दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ १०॥
तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः ।
न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ ११॥
विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः ।
तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ १२॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।
पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ १३॥
वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् ।
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ १४॥
तदहः पितरश्चैनमूचुर्जहि मृगानिति ।
तच्छ्रुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ १५॥
पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् ।
चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ १६॥
वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् ।
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ १७॥
तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् ।
वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ॥ १८॥
इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् ।
ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ १९॥
अमोघं सर्वथा वीर्यं मम चैतन्न संशयः ।
प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ २०॥
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।
अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ २१॥
पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति ।
गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ २२॥
मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय ।
गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ २३॥
सूत उवाच ।
इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः ।
स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ २४॥
गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् ।
तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ २५॥
आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् ।
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ २६॥
युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि ।
खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ २७॥
एतस्मिन्समये काचिदद्रिका नाम चाप्सराः ।
ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ २८॥
कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा ।
जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ २९॥
प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् ।
शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ ३०॥