स्कन्ध 8, अध्याय 16: सोमादिगतिवर्णनम्, Verse 1
८.१६ षोडशोऽध्यायः ।
सोमादिगतिवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् ।
तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१६ षोडशोऽध्यायः ।
सोमादिगतिवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् ।
तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ १॥
यथा कुलालचक्रेण भ्रमता भ्रमतां सह ।
तदाश्रयाणां च गतिरन्या कीटादिनां भवेत् ॥ २॥
एवं हि राशिवृन्देन कालचक्रेण तेन च ।
मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा ॥ ३॥
ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते ।
नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा ॥ ४॥
गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः ।
स एव भगवानादिपुरुषो लोकभावनः ॥ ५॥
नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् ।
कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम् ॥ ६॥
कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् ।
षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम् ॥ ७॥
यथोपजोषमृतुजान् गुणान् वै विदधाति च ।
तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥ ८॥
वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः ।
उच्चावचैः श्रद्धया च योगानां च वितानकैः ॥ ९॥
अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् ।
अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च ॥ १०॥
कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः ।
संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥ ११॥
नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते ।
यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते ॥ १२॥
संवत्सरस्यावयवः कविभिश्चोपवर्णितः ।
यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ १३॥
तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः ।
अथ यावन्नभोमण्डलं सह प्रतिगच्छति ॥ १४॥
कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः ।
संवत्सरं परिवत्सरमिडावत्सरमेव च ॥ १५॥
अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् ।
भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः ॥ १६॥
एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत ।
एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः ॥ १७॥
उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः ।
पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः ॥ १८॥
सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् ।
एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम् ॥ १९॥
पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् ।
क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः ॥ २०॥
अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः ।
सर्वजीवनिकायस्य प्राणो जीवः स एव हि ॥ २१॥
भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः ।
स एव षोडशकलः पुरुषोऽनादिसत्तमः ॥ २२॥
मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः ।
देवपितृमनुष्यादिसरीसृपसवीरुधाम् ॥ २३॥
प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते ।
ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः ॥ २४॥
मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु ।
अष्टाविंशतिसङ्ख्यानि गणितानि सहाभिजित् ॥ २५॥
ततः शुक्रो द्विलक्षेण योजनानामथोपरि ।
पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥ २६॥
शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः ।
लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः ॥ २७॥
वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने ।
शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः ॥ २८॥
शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा ।
यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु ॥ २९॥
अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः ।
उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः ॥ ३०॥