स्कन्ध 8, अध्याय 15: भुवनकोशवर्णने सूर्यगतिवर्णनम्, Verse 1
८.१५ पञ्चदशोऽध्यायः ।
भुवनकोशवर्णने सूर्यगतिवर्णनम् ।
श्रीनारायण उवाच ।
अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् ।
शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१५ पञ्चदशोऽध्यायः ।
भुवनकोशवर्णने सूर्यगतिवर्णनम् ।
श्रीनारायण उवाच ।
अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् ।
शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ १॥
सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम ।
स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ॥ २॥
वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः ।
अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ ३॥
रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ।
पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ ४॥
एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ।
तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ ५॥
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ ६॥
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ ७॥
श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ ८॥
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।
उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ ९॥
कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् ।
तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ १०॥
मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम ।
रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ ११॥
दक्षिणायनके पाशे प्रेरणादवरोहणम् ।
बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ १२॥
तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता ।
वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ १३॥
मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके ।
आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ १४॥
तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च ।
ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ १५॥
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ।
तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ १६॥
दक्षिणे वै संयमनी नाम याम्या महापुरी ।
पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ १७॥
तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी ।
ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ १८॥
संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् ।
विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ १९॥
प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः ।
मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ २०॥
मेरुस्थानां सदा मध्यं गत एव विभाति हि ।
सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ २१॥
उदयास्तमये चैव सर्वकालं तु सम्मुखे ।
दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ २२॥
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ २३॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ २४॥
शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ।
विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ २५॥
सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः ।
यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ २६॥
तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः ।
यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ २७॥
याम्यां तदा योजनानां सपादं कोटियुग्मकम् ।
सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ २८॥
प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः ।
एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ २९॥
पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये ।
तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ ३०॥