स्कन्ध 8, अध्याय 13: भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम्, Verse 1
८.१३ त्रयोदशोऽध्यायः ।
भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।
नारद उवाच ।
शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन ।
येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ १॥
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१३ त्रयोदशोऽध्यायः ।
भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।
नारद उवाच ।
शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन ।
येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ १॥
श्रीरानारायण उवाच ।
कुशद्वीपस्य परितो घृतोदावरणं महत् ।
ततो बहिः क्रौञ्चद्वीपो द्विगुणः स्यात्स्वमानतः ॥ २॥
क्षीरोदेनावृतो भाति यस्मिन्क्रौञ्चाद्रिरस्ति च ।
नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ ३॥
योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् ।
क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ ४॥
घृतपृष्ठो नाम यस्य विभाति किल नायकः ।
प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ ५॥
स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ ।
पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ ६॥
स्वयं भगवतस्तस्य शरणं सञ्जगाम ह ।
आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ ७॥
भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च ।
नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ ८॥
शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः ।
नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ ९॥
अभया अमृतौघा चार्यका तीर्थवतीति च ।
वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ १०॥
एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते ।
पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः ॥ ११॥
एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि ।
तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ १२॥
पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः ।
आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ १३॥
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः ।
इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ १४॥
एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः ।
द्वात्रिंशल्लक्षसङ्ख्याकयोजनायाममाश्रितः ॥ १५॥
स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च ।
शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ १६॥
स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद ।
प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ १७॥
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च ।
सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ १८॥
पुरोजवो मनःपूर्वजवोऽथ पवमानकः ।
धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ १९॥
मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः ।
ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः ॥ २०॥
सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः ।
एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ २१॥
अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च ।
अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ २२॥
ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः ।
तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ २३॥
दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः ।
भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ २४॥
यजन्ति निर्धूतरजस्तमसः परमं हरिम् ।
अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ २५॥
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् ।
परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ २६॥
पुष्करद्वीपनामायं शाकद्वीपद्विसङ्गुणः ।
स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ २७॥
यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च ।
पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ २८॥
श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः ।
कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ २९॥
तद्द्वीप एक एवायं मानसोत्तरनामकः ।
अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ ३०॥