स्कन्ध 8, अध्याय 12: भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम्, Verse 1
८.१२ द्वादशोऽध्यायः ।
भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।
श्रीनारायण उवाच ।
जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः ।
तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१२ द्वादशोऽध्यायः ।
भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।
श्रीनारायण उवाच ।
जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः ।
तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ १॥
जम्ब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च ।
क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ २॥
यथैव परिखा बाह्योपवनेन हि वेष्ट्यते ।
प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ ३॥
हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः ।
प्रियव्रतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ ४॥
अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च ।
विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ ५॥
स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः ।
तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ ६॥
शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा ।
अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ ७॥
तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि ।
अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका ॥ ८॥
ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः ।
मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ ९॥
ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च ।
मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ १०॥
नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः ।
निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ ११॥
हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च ।
सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ १२॥
सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः ।
स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ १३॥
प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ १४॥
प्लक्षादिषु च सर्वेषु पञ्चद्वीपेषु नारद ।
आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ १५॥
विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा ।
प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ १६॥
प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते ।
शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ १७॥
समानेन सुरोदेन सिन्धुना परिवेष्टितः ।
यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ १८॥
स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः ।
तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ १९॥
जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् ।
तद्वर्षाणां च नामानि कथितानि निबोधत ॥ २०॥
सुरोचनं सौमनस्यं रमणं देववर्षकम् ।
पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥ २१॥
तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः ।
सरसः शतशृङ्गश्च वामदेवश्च कन्दकः ॥ २२॥
कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च ।
एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ २३॥
अनुमतिः सिनीवाली सरस्वती कुहूस्तथा ।
रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ २४॥
तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः ।
श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ २५॥
भगवन्तं वेदमयं यजन्ते सोममीश्वरम् ।
स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥ २६॥
सर्वासां च प्रजानां च राजा सोमः प्रसीदतु ।
एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ २७॥
घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते ।
यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ २८॥
स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते ।
हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट् ॥ २९॥
स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तधाभजत् ।
वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ ३०॥