स्कन्ध 8, अध्याय 11: भुवनकोशवर्णने भारतवर्षवर्णनम्, Verse 1
८.११ एकादशोऽध्यायः ।
भुवनकोशवर्णने भारतवर्षवर्णनम् ।
श्रीनारायण उवाच ।
भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः ।
तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ १॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.११ एकादशोऽध्यायः ।
भुवनकोशवर्णने भारतवर्षवर्णनम् ।
श्रीनारायण उवाच ।
भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः ।
तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ १॥
नारद उवाच ।
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ।
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ २॥
इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ ३॥
यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम् ॥ ४॥
तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम् ॥ ५॥
एवं स्तौति सदा देवं नारायणमनामयम् ।
नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक् ॥ ६॥
अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि ।
तान्प्रवक्ष्यामि देवर्षे शृणुष्वैकाग्रमानसः ॥ ७॥
मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः ।
ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ॥ ८॥
ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः ।
वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः ॥ ९॥
पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा ।
गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥ १०॥
गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा ।
एते चान्येऽप्यसङ्ख्याता गिरयो बहुपुण्यदाः ॥ ११॥
एतदुत्पन्नसरितः शतशोऽथ सहस्रशः ।
पानावगाहनस्नानदर्शनोत्कीर्तनैरपि ॥ १२॥
नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् ।
ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका ॥ १३॥
वैहायसी च कावेरी वेणा चैव पयस्विनी ।
तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥ १४॥
गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका ।
तापी रेवा च सुरसा नर्मदा च सरस्वती ॥ १५॥
चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ ।
ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी ॥ १६॥
कौशिकी यमुना चैव मन्दाकिनी दृषद्वती ।
गोमती सरयू रोधवती सप्तवती तथा ॥ १७॥
सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा ।
वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः ॥ १८॥
अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः ।
शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः ॥ १९॥
भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् ।
यथा वर्णविधानेनापवर्गो भवति स्फुटम् ॥ २०॥
एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः ।
वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः ॥ २१॥
अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २२॥
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २३॥
कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः ॥ २४॥
न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २५॥
प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ २६॥
यैः श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २७॥
सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम् ॥ २८॥
(यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् ।
तेनाब्जनाभे स्मृतिमज्जन्म नः स्या- द्वर्षे हरिर्भजतां शं तनोति ॥
)
श्रीनारायण उवाच ।
एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः ।
प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम् ॥ २९॥