स्कन्ध 8, अध्याय 10: भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम्, Verse 1
८.१० दशमोऽध्यायः ।
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।
श्रीनारायण उवाच ।
हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।
आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ १॥
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.१० दशमोऽध्यायः ।
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।
श्रीनारायण उवाच ।
हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।
आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ १॥
अर्यमोवाच ।
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमोऽवस्थानाय नमस्ते ।
यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ २॥
जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३॥
यस्मिन्नसङ्ख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते ॥ ४॥
एवं स्तुवति देवेशमर्यमा सह वर्षपैः ।
गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ ५॥
तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः ।
आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ ६॥
सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा ।
भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ ७॥
भूरुवाच ।
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ८॥
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ ९॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुभिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- र्निरस्तमायाकृतये नमोऽस्तु ते ॥ १०॥
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः ।
माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ११॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ १२॥
किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् ।
सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ १३॥
ॐ नमो भगवते उत्तमश्लोकाय नम इति ।
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः ।
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ।
यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥ १४॥
मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो ।
कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ १५॥
न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति ॥ १६॥
न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ १७॥
सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम् ॥ १८॥
श्रीनारायण उवाच ।
एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् ।
रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ १९॥
स्तौति गायति भक्त्या च सम्पूजयति सर्वशः ।
य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ।
सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ २०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ ८.१०॥