स्कन्ध 8, अध्याय 8: भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम्, Verse 1
८.८ अष्टमोऽध्यायः ।
भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।
श्रीनारायण उवाच ।
तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा ।
पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ १॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.८ अष्टमोऽध्यायः ।
भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।
श्रीनारायण उवाच ।
तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा ।
पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ १॥
सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः ।
फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ २॥
तेषु काननवर्षेषु वर्षपर्वतसानुषु ।
गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ ३॥
विकचोत्पलमालासु हंससारससञ्चयैः ।
विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ ४॥
जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च ।
सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ ५॥
तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह ।
नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ ६॥
(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।
) देवीमाराधयन्नास्ते स च सर्वैश्च पूज्यते ।
आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ ७॥
इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः ।
एक एव भवो देवो नित्यं वसति साङ्गनः ॥ ८॥
तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च ।
भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥ ९॥
भवानीनाथकैः स्त्रीणामसङ्ख्यैर्गणकोटिभिः ।
संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ १०॥
आत्मना ध्यानयोगेन सर्वभूतहितेच्छया ।
तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ ११॥
उपधावते चैकाग्रमनसा भगवानजः ।
श्रीभगवानुवाच ।
ओन्नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १२॥
भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम् ॥ १३॥
न यस्य मायागुणकर्मवृत्तिभि- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नो जितमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः ॥ १४॥
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवतागम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ १५॥
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ १६॥
यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल ।
यत्संवृतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥ १७॥
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥ १८॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥ १९॥
श्रीनारायण उवाच ।
एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् ।
इलावृतमुपासीत देवीगणसमाहितः ॥ २०॥
तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति ।
तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ २१॥
भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् ।
हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम् ॥ २२॥
परमेण समाध्यन्यवारकेण नियन्त्रिताम् ।
एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ २३॥
भद्रश्रवस ऊचुः ।
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषुः ॥ २४॥
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ २५॥
विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ २६॥
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते ॥ २७॥
एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते ।
भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान् ॥ २८॥
एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः ।
पापकञ्चुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८.८॥