स्कन्ध 8, अध्याय 7: भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम्, Verse 1
८.७ सप्तमोऽध्यायः ।
भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।
श्रीनारायण उवाच ।
गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः ।
सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.७ सप्तमोऽध्यायः ।
भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।
श्रीनारायण उवाच ।
गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः ।
सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ १॥
जठरो देवकूटश्च तावेतौ गिरिवर्यकौ ।
मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ २॥
पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ ।
मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ ३॥
प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ ।
एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी ॥ ४॥
एतैश्चाद्रिवरैरष्टसङ्ख्यैः परिवृतो गिरिः ।
सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ ५॥
मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः ।
मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ ६॥
समानचतुरस्रां च शातकौम्भमयीं पुरीम् ।
वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ ७॥
तां पुरीमनुलोकानामष्टानामीशिषां पराः ।
पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ ८॥
यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः ।
मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ ९॥
तेजोवती संयमनी तथा कृष्णाङ्गनापरा ।
श्रद्धावती गन्धवती तथा चान्या महोदया ॥ १०॥
यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् ।
तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ ११॥
वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद ।
अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ १२॥
मूर्धन्यवततारेयं गङ्गा संविशती विभो ।
लोकानामखिलानां च पापहारिजलाकुला ॥ १३॥
इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता ।
कालेन महता सा तु युगसाहस्रकेण तु ॥ १४॥
दिवो मूर्धानमागत्य देवी देवनदीश्वरी ।
यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ १५॥
औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः ।
भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ १६॥
अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः ।
तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ १७॥
प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः ।
आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ १८॥
आद्रियन्ते च शिरसा जटाजूटोषितेन च ।
ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ १९॥
विमानैराकुले देवयानेऽवतरती च सा ।
चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ २०॥
चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद ।
चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ २१॥
सरितां च नदीनां च पतिमेवान्वपद्यत ।
सीता चालकनन्दा च चतुर्भद्रेति नामभिः ॥ २२॥
सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् ।
केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ २३॥
गन्धमादनमूर्ध्नीह पतिता पापहारिणी ।
अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ २४॥
क्षारोदधिं गता सा तु द्युनदी देवपूजिता ।
ततो माल्यवतः शृङ्गाद् द्वितीया परिनिर्गता ॥ २५॥
ततो वेगवती भूत्वा केतुमालं समागता ।
चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ २६॥
सरितां पतिमाविष्टा सा गङ्गा देववन्दिता ।
ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ २७॥
पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् ।
वनानि गिरिकूटानि समतिक्रम्य चागता ॥ २८॥
हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता ।
अतिवेगवती भूत्वा भारतं चागतापरा ॥ २९॥
दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा ।
यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ ३०॥