स्कन्ध 1, अध्याय 20: धृतराष्ट्रादीनामुत्पत्तिवर्णनम्, Verse 1
१.२० विंशोऽध्यायः ।
धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः ।
किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ १॥
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.२० विंशोऽध्यायः ।
धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः ।
किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ १॥
सूत उवाच ।
शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः ।
आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥ २॥
असितो देवलश्चैव वैशम्पायन एव च ।
जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः ॥ ३॥
तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत ।
व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम् ॥ ४॥
सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् ।
मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम् ॥ ५॥
स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् ।
आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥ ६॥
द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना ।
निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ॥ ७॥
दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् ।
स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः ॥ ८॥
दाशराज उवाच ।
अद्य मे सफलं जन्म पावितं नः कुलं मुने ।
देवानामपि दुर्दर्शं यज्जातं तव दर्शनम् ॥ ९॥
यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम ।
अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥ १०॥
सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् ।
व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः ॥ ११॥
सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः ।
मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः ॥ १२॥
चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः ।
बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥ १३॥
विचित्रवीर्यनामासौ द्वितीयः समजायत ।
सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः ॥ १४॥
गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः ।
तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ ॥ १५॥
शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् ।
अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥ १६॥
अथ कालेन कियता शन्तनुः कालपर्ययात् ।
तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम् ॥ १७॥
कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः ।
प्रेतकार्याणि सर्वाणि दानानि विविधानि च ॥ १८॥
चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् ।
स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥ १९॥
चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः ।
बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः ॥ २०॥
अथैकदा महाबाहुः सैन्येन महतावृतः ।
प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून् ॥ २१॥
चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् ।
उत्ततारान्तिकं भूमेर्विमानवरमास्थितः ॥ २२॥
तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः ।
कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः ॥ २३॥
इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे ।
भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥ २४॥
गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः ।
विचित्रवीर्यनामानं राज्येशं च चकार ह ॥ २५॥
मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः ।
स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च ॥ २६॥
सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी ।
व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् ॥ २७॥
यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः ।
चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः ॥ २८॥
काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः ।
तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ॥ २९॥
राजानो राजपुत्राश्च समाहूताः सहस्रशः ।
इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः ॥ ३०॥