स्कन्ध 8, अध्याय 6: भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम्, Verse 1
८.६ षष्ठोऽध्यायः ।
भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अरुणोदा नदी या तु मया प्रोक्ता च नारद ।
मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ १॥