स्कन्ध 8, अध्याय 2: धरण्युद्धारवर्णनम्, Verse 1
८.२ द्वितीयोऽध्यायः ।
धरण्युद्धारवर्णनम् ।
श्रीनारायण उवाच ।
एवं मीमांसतस्तस्य पद्मयोनेः परन्तप ।
मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
८.२ द्वितीयोऽध्यायः ।
धरण्युद्धारवर्णनम् ।
श्रीनारायण उवाच ।
एवं मीमांसतस्तस्य पद्मयोनेः परन्तप ।
मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ १॥
ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ ।
वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ २॥
तस्यैव पश्यतः खस्थः क्षणेन किल नारद ।
करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥ ३॥
मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद ।
तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ ४॥
किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् ।
अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ ५॥
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्तिभः ।
आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ ६॥
इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः ।
वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ ७॥
विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् ।
स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ ८॥
ते निशम्य स्वखेदस्य क्षयितुं घुर्घुरस्वनम् ।
जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ ९॥
छन्दोमयैः स्तोत्रवरैरृक्सामाथर्वसम्भवैः ।
वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ १०॥
तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः ।
कृपावलोकमात्रेणानुगृहीत्वाऽऽप आविशत् ॥ ११॥
तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः ।
समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ १२॥
इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः ।
विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ १३॥
इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् ।
आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ १४॥
अन्तर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा ।
भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ १५॥
तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरूषः ।
शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ १६॥
तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् ।
तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ १७॥
ब्रह्मोवाच ।
जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन ।
खर्वीकृतसुराधार सर्वकामफलप्रद ॥ १८॥
इयं च धरणी देव शोभते वसुधा तव ।
पद्मिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ १९॥
इदं च ते शरीरं वै शोभते भूमिसङ्गमात् ।
उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ २०॥
नमो नमस्ते देवेश सृष्टिसंहारकारक ।
दानवानां विनाशाय कृतनानाकृते प्रभो ॥ २१॥
अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः ।
सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ २२॥
त्वयाहं च प्रजासर्गे नियुक्तः शक्तिबृंहितः ।
त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ २३॥
त्वत्सहायेन देवेशा अमराश्च पुरा हरे ।
सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ २४॥
इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशतः ।
भुनक्ति लक्ष्मीं बहुलां सुरसङ्घप्रपूजितः ॥ २५॥
वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः ।
देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ २६॥
धर्मराजोऽथ पितॄणामधिपः सर्वकर्मदृक् ।
कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ २७॥
नैरृतो रक्षसामीशो यक्षो विघ्नविनाशनः ।
सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ २८॥
वरुणो यादसामीशो लोकपालो जलाधिपः ।
त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ २९॥
वायुर्गन्धवहः सर्वभूतप्राणनकारणम् ।
जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥ ३०॥