स्कन्ध 8, अध्याय 1: भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम्, Verse 1
८ श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः ८.१ प्रथमोऽध्यायः ।
भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।
जनमेजय उवाच ।
सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् ।
चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ १॥