स्कन्ध 7, अध्याय 40: देवीगीतायां बाह्यपूजाविधिवर्णनम्, Verse 1
अध्याय एकोणचाळिसावा समाप्त ७.४० चत्वारिंशोऽध्यायः ।
देवीगीतायां बाह्यपूजाविधिवर्णनम् ।
श्री देव्युवाच ।
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १॥