स्कन्ध 7, अध्याय 37: देवीगीतायां भक्तिमहिमावर्णनम्, Verse 1
७.३७ सप्तत्रिंशोऽध्यायः ।
देवीगीतायां भक्तिमहिमावर्णनम् ।
हिमालय उवाच ।
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि ।
जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.३७ सप्तत्रिंशोऽध्यायः ।
देवीगीतायां भक्तिमहिमावर्णनम् ।
हिमालय उवाच ।
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि ।
जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ १॥
देव्युवाच ।
मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २॥
त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा ।
सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३॥
गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता ।
परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ ४॥
मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी ।
परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५॥
नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः ।
तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६॥
भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः ।
तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७॥
परमेशार्पणं कर्म पापसङ्क्षालनाय च ।
वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८॥
इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः ।
करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ ९॥
परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् ।
पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ १०॥
अधुना परभक्तिं तु प्रोच्यमानां निबोध मे ।
मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११॥
कल्याणगुणरत्नानामाकरायां मयि स्थिरम् ।
चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२॥
हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि ।
सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ १३॥
मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् ।
सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ १४॥
परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः ।
स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५॥
मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः ।
यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६॥
चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः ।
सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ १७॥
नमते यजते चैवाप्याचाण्डालान्तमीश्वर ।
न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८॥
मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा ।
मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ १९॥
मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा ।
प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ २०॥
अनन्येनैव भावेन पूजयेद्यो नगाधिप ।
मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१॥
व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि ।
नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२॥
मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा ।
जायते यस्य नियतं स्वभावादेव भूधर ॥ २३॥
उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति ।
अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ २४॥
प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् ।
न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५॥
इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता ।
यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ २६॥
इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः ।
तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७॥
भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् ।
वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८॥
भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग ।
न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९॥
तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति ।
तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३०॥