स्कन्ध 1, अध्याय 19: शुकस्य विवाहादिकार्यवर्णनम्, Verse 1
१.१९ एकोनविंशोऽध्यायः ।
शुकस्य विवाहादिकार्यवर्णनम् ।
शुक उवाच ।
सन्देहोऽयं महाराज वर्तते हृदये मम ।
मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.१९ एकोनविंशोऽध्यायः ।
शुकस्य विवाहादिकार्यवर्णनम् ।
शुक उवाच ।
सन्देहोऽयं महाराज वर्तते हृदये मम ।
मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ १॥
शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् ।
त्यजते न मनो मोहं स कथं मुच्यते नरः ॥ २॥
अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः ।
यथा न नश्यति तमः कृतया दीपवार्तया ॥ ३॥
अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः ।
स कथं राजशार्दूल गृहस्थस्य भवेत्तथा ॥ ४॥
वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा ।
जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः ॥ ५॥
चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे ।
स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ॥ ६॥
कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् ।
शुभेषु रमते चित्तं नाशुभेषु तथा नृप ॥ ७॥
जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि ।
अवस्थास्तु यथाकालं तुरीया तु कथं नृप ॥ ८॥
पदात्यश्वरथेभाश्च सर्वे वै वशगा मम ।
स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे ॥ ९॥
मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा ।
मालायां च तथा सर्पे समदृक् क्व नृपोत्तम ॥ १०॥
विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः ।
एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु ॥ ११॥
न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् ।
एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः ॥ १२॥
निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः ।
मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः ॥ १३॥
किं मे गृहेण वित्तेन भार्यया च सुरूपया ।
विरागमनसः कामं गुणातीतस्य पार्थिव ॥ १४॥
चिन्त्यसे विविधाकारं नानारागसमाकुलम् ।
दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे ॥ १५॥
कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन ।
कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप ॥ १६॥
वैखानसा ये मुनयो मिताहारा जितव्रताः ।
तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम् ॥ १७॥
तव वंशसमुत्थानां विदेहा इति भूपते ।
कुटिलं नाम जानीहि नान्यथेति कदाचन ॥ १८॥
विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः ।
लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम् ॥ १९॥
तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः ।
विदेहा इति विख्याता नामतः कर्मतो न ते ॥ २०॥
निमिनामाभवद्राजा पूर्वं तव कुले नृप ।
यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम् ॥ २१॥
निमन्त्रयामास तदा तमुवाच नृपं मुनिः ।
निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल ॥ २२॥
कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।
तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः ॥ २३॥
इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः ।
निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् ॥ २४॥
तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः ।
शशाप च पतत्वद्य देहस्ते गुरुलोपक ॥ २५॥
राजापि तं शशापाथ तवापि च पतत्वयम् ।
अन्योन्यशापात्पतितौ तावेव च मया श्रुतम् ॥ २६॥
विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् ।
विनोद इव मे चित्ते विभाति नृपसत्तम ॥ २७॥
जनक उवाच ।
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् ।
तथापि शृणु विप्रेन्द्र गुरुर्मम सुपूजितः ॥ २८॥
पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि ।
मृगैः सह सुसम्बन्धो भविता ते न संशयः ॥ २९॥
महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि ।
आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने ॥ ३०॥