स्कन्ध 7, अध्याय 36: देवीगीतायां ब्रह्मविद्योपदेशवर्णनम्, Verse 1
७.३६ षट्त्रिंशोऽध्यायः ।
देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।
देव्युवाच ।
इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.३६ षट्त्रिंशोऽध्यायः ।
देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।
देव्युवाच ।
इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥
आविः सन्निहितं गुहाचरं नाम महत्पदम् ।
अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ॥ २॥
एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ ३॥
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४॥
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६॥
यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ७॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोऽन्तश्चरते बहुधा जायमानः ॥ ८॥
ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् ।
दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ १०॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११॥
हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १३॥
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ १४॥
एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५॥
द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न ।
न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६॥
अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत ।
मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७॥
नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् ।
वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ १८॥
मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् ।
कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९॥
विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः ।
ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २०॥
कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि ।
इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१॥
शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३॥
यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी ।
पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४॥
पितृजातं जन्म नष्टं नेत्थं जातं कदाचन ।
तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५॥
तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ २६॥
तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग ।
कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७॥
अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः ।
इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८॥
अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा ।
अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ २९॥
पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा ।
इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ।
लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३०॥