स्कन्ध 7, अध्याय 34: देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम्, Verse 1
७.३४ चतुस्त्रिंशोऽध्यायः ।
देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।
श्री देव्युवाच ।
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.३४ चतुस्त्रिंशोऽध्यायः ।
देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।
श्री देव्युवाच ।
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥
न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।
रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥
क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।
नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥
पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।
नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥
घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥
तस्मादज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥
पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥
न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥
अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥
तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥
ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।
सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥
इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ १३॥
यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः ।
तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ १४॥
तस्मात् सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥
शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः ।
तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥
तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥
वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।
तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥
तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥
पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥
त्वं पदस्य च वाच्यार्थो जीव एव न संशयः ।
उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥
वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।
लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥
चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥
देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।
स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ २४॥
पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥
मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।
सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥
ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥
अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।
द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥
अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।
देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥
उपाधिविलये जाते केवलात्मावशिष्यते ।
देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ ३०॥