स्कन्ध 7, अध्याय 33: श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम्, Verse 1
७.३३ त्रयस्त्रिंशोऽध्यायः ।
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।
देव्युवाच ।
मन्मायाशक्तिसङ्क्लृप्तं जगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ १॥