स्कन्ध 7, अध्याय 31: हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.३१ एकत्रिंशोऽध्यायः ।
हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।
जनमेजय उवाच ।
धराधराधीशमौलावाविरासीत्परं महः ।
यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ १॥