स्कन्ध 7, अध्याय 30: देवीपीठवर्णनम्, Verse 1
७.३० त्रिंशोऽध्यायः ।
देवीपीठवर्णनम् ।
व्यास उवाच - ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः ।
मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ १॥
Containing 102 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.३० त्रिंशोऽध्यायः ।
देवीपीठवर्णनम् ।
व्यास उवाच - ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः ।
मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ १॥
ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप ।
ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ २॥
पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना ।
करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ ३॥
दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः ।
नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ ४॥
नमस्तेजसरूपायै सूत्रात्मवपुषे नमः ।
यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ ५॥
नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये ।
नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ ६॥
नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये ।
इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ ७॥
प्रणेमुश्चरणाम्भोजं दक्षाद्या मुनयोऽमलाः ।
ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ ८॥
वरं ब्रूत महाभागा वरदाहं सदा मता ।
तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ ९॥
तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम ।
दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ १०॥
भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति ।
जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ ११॥
वद मे परमेशानि स्वमुखेनैव केवलम् ।
देव्युवाच - मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ १२॥
नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन ।
अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ १३॥
भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे ।
जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ १४॥
मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा ।
ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ १५॥
सच्चिदानन्दरूपं वा स्थानं सर्वं जगन्मम ।
युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ १६॥
व्यास उवाच - इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी ।
दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ १७॥
ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् ।
हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ १८॥
जातौ पराम्बाकृपया गर्वेण रहितौ तदा ।
कदाचितदथ काले तु महः शाक्तमवातरत् ॥ १९॥
दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् ।
देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ २०॥
नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप ।
मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ २१॥
सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः ।
मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ २२॥
तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः ।
ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ २३॥
सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप ।
जनमेजय उवाच - अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ २४॥
एतादृशं महद्वस्तु कथं दग्धं हुताशने ।
यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ २५॥
केन कर्मविपाकेन मनोर्दग्धं तदेव हि ।
व्यास उवाच - शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ २६॥
कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् ।
ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ २७॥
ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् ।
भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ २८॥
ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः ।
ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ २९॥
आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता ।
सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ ३०॥