स्कन्ध 7, अध्याय 29: भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम्, Verse 1
७.२९ एकोनत्रिंशोऽध्यायः ।
भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।
व्यास उवाच - इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् ।
सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.२९ एकोनत्रिंशोऽध्यायः ।
भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।
व्यास उवाच - इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् ।
सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ १॥
पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे ।
राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ २॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ ३॥
एते चान्ये च राजानः पराशक्तेरुपासकाः ।
संसारतरुमूलस्य कुठारा अभवन्नृप ॥ ४॥
तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी ।
पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥ ५॥
आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप ।
पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः ॥ ६॥
पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता ।
तत एव महादेव्या पञ्चब्रह्मासनं कृतम् ॥ ७॥
पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते ।
यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥ ८॥
तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ ९॥
तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति ।
अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः ॥ १०॥
ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ ११॥
तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे ।
लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया ।
सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च ॥ १२॥
तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः ।
येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि ॥ १३॥
कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् ।
तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम् ॥ १४॥
विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् ।
सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि ॥ १५॥
सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् ।
आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम् ॥ १६॥
तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् ।
राजन् राज्ञां पराशक्तिभक्तानां चरितं मया ॥ १७॥
धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् ।
पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥ १८॥
कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि ।
जनमेजय उवाच - गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया ॥ १९॥
हराय हरये तद्वन्नाभिपद्मोद्भवाय च ।
तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम् ॥ २०॥
क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् ।
मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः ॥ २१॥
असम्भाव्यमिदं भाति संशयोऽत्र महामुने ।
छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥ २२॥
व्यास उवाच - शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते ॥ २३॥
देवीत्रयं यदा देवत्रयायादात्पराम्बिका ।
तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥ २४॥
कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः ।
महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात् ॥ २५॥
ब्रह्मणो वरदानेन दर्पिता रजताचलम् ।
रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च ॥ २६॥
कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः ।
षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम् ॥ २७॥
हाहाकारो महानासीद्देवदानवसेनयोः ।
महताथ प्रयत्नेन ताभ्यां ते दानवा हताः ॥ २८॥
स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः ।
स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः ॥ २९॥
अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः ।
महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ ॥ ३०॥