स्कन्ध 7, अध्याय 27: हरिश्चन्द्राख्यानश्रवणफलवर्णनम्, Verse 1
७.२७ सप्तविंशोऽध्यायः ।
हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।
सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ १॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.२७ सप्तविंशोऽध्यायः ।
हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।
सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ १॥
चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् ।
पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ २॥
रक्ताम्बरपरीधानां करुणारससागरम् ।
नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ ३॥
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।
धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ ४॥
आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो ।
अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम् ॥ ५॥
साध्याः सविश्वे मरुतो लोकपालाः सचारणाः ।
नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ ६॥
एते चान्येऽथ बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः ॥ ७॥
विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति ।
धर्म उवाच - मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः ॥ ८॥
तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः ।
इन्द्र उवाच - हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ ९॥
त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः ।
आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ १०॥
सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः ।
सूत उवाच - ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ ११॥
इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ ।
पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ॥ १२॥
समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥ १३॥
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा ।
सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः ॥ १४॥
बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥ १५॥
सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् ।
समारोह महाभाग निजानां कर्मणां फलम् ॥ १६॥
हरिश्चन्द्र उवाच - देवराजाननुज्ञातः स्वामिना श्वपचेन हि ।
अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम् ॥ १७॥
धर्म उवाच - तवैवं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम् ॥ १८॥
इन्द्र उवाच - प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि ।
तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ १९॥
हरिश्चन्द्र उवाच - देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे ।
मच्छोकमग्नमनसः कौसले नगरे नराः ॥ २०॥
तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् ।
ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ २१॥
तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् ।
भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ २२॥
तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज ।
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ॥ २३॥
ततोऽहमपि यास्यामि नरकं वापि तैः सह ।
इन्द्र उवाच - बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ २४॥
कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि ।
हरिश्चन्द्र उवाच - भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम् ॥ २५॥
यजते च महायज्ञैः कर्म पूर्तं करोति च ।
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥ २६॥
उपदादान्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया ।
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ॥ २७॥
दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः ।
बहुकालोपभोज्यं च फलं यन्मम कर्मगम् ॥ २८॥
तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः ।
सूत उवाच - एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ २९॥
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ।
गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ ३०॥