स्कन्ध 7, अध्याय 26: हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम्, Verse 1
७.२६ षड्विंशोऽध्यायः ।
हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।
सूत उवाच - ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः ।
अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ १॥