स्कन्ध 7, अध्याय 25: चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.२५ पञ्चविंशोऽध्यायः ।
चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।
सूत उवाच - एकदा तु गतो रन्तुं बालकैः सहितो बहिः ।
वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ १॥