स्कन्ध 7, अध्याय 23: हरिश्चन्द्रोपाख्यानवर्णनम्, Verse 1
७.२३ त्रयोविंशोऽध्यायः ।
हरिश्चन्द्रोपाख्यानवर्णनम् ।
व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः ।
तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ १॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.२३ त्रयोविंशोऽध्यायः ।
हरिश्चन्द्रोपाख्यानवर्णनम् ।
व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः ।
तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ १॥
विश्वामित्रे गते राजा ततः शोकमुपागतः ।
श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २॥
वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति ।
स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः ॥ ३॥
अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् ।
दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥ ४॥
कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः ।
हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः ॥ ५॥
चाण्डाल उवाच - अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम ।
क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते ॥ ६॥
व्यास उवाच - तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् ।
वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥ ७॥
चाण्डाल उवाच - चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम ।
शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ ८॥
एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् ।
ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ ९॥
उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः ।
अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ १०॥
चाण्डाल उवाच ।
एवमेव त्वया धर्मः कथितो नृपसत्तम ।
अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः ॥ ११॥
विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः ।
सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ ॥ १२॥
यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः ।
हरिश्चन्द्र उवाच - असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः ॥ १३॥
ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता ।
व्यास उवाच - तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ १४॥
क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् ।
चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ १५॥
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ।
राजोवाच - भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ १६॥
कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः ।
विश्वामित्र उवाच - यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम ॥ १७॥
न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् ।
चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥ १८॥
विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः ।
धनेनाहं विना राजन्न यास्यामि न संशयः ॥ १९॥
इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप ।
दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ २०॥
व्यास उवाच - हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः ।
प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥ २१॥
हरिश्चन्द्र उवाच - दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः ।
प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः ॥ २२॥
भवेयं वित्तशेषेण तव कर्मकरो वशः ।
तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ २३॥
विश्वामित्र उवाच - एवमस्तु महाराज ममैव भव किङ्करः ।
किन्तु मद्वचनं कार्यं सर्वदैव नराधिप ॥ २४॥
व्यास उवाच - एवमुक्तेऽथ वचने राजा हर्षसमन्वितः ।
अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ २५॥
तवादेशं करिष्यामि सदैवाहं न संशयः ।
आदेशय द्विजश्रेष्ठ किं करोमि तवानघ ॥ २६॥
विश्वामित्र उवाच - चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि ।
गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ २७॥
नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम ।
व्यास उवाच - एवमुक्ते तदा तेन स्वपचो हृष्टमानसः ॥ २८॥
आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत ।
चाण्डाल उवाच - दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ २९॥
भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम ।
अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ ३०॥