Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.२२ द्वाविंशोऽध्यायः ।

हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।

व्यास उवाच - स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः ।

प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 2

नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ।

यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 3

एवमुक्त्वा ततो राजा गत्वा नगरमातुरः ।

अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ।

बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् ।

भो भो नागरिकाः सर्वे श‍ृणुध्वं वचनं मम ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 4

कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम ।

स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 5

तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः ।

राजोवाच - किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 6

राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ।

व्यास उवाच - तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 7

वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत ।

समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 8

अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया ।

गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 9

अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् ।

एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 10

विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् ।

विप्र उवाच - कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 11

अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ।

धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 12

द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ।

कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 13

इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः ।

दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 14

ततः स विप्रो नृपतेः पुरतो वल्कलोपरि ।

धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 15

राज्ञ्युवाच - मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् ।

दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 16

पश्येह पुत्र मामेवं मातरं दास्यतां गताम् ।

मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 17

ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् ।

समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 18

हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् ।

तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 19

वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् ।

राज्ञ्युवाच - प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 20

क्रीतापि नाहं भविता विनैनं कार्यसाधिका ।

इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 21

ब्राह्मण उवाच - गृह्यतां वित्तमेतत्ते दीयतां मम बालकः ।

स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 22

शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः ।

द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 23

कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् ।

सूत उवाच - तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 24

प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ।

प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 25

प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता ।

बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 26

यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि ।

तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 27

पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् ।

हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 28

वियुक्तेयं कथं जाता सत्यशीलगुणान्विता ।

वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 29

एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् ।

पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ ३०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 22: हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्, Verse 30

कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् ।

राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ३१॥