स्कन्ध 7, अध्याय 20: हरिश्चन्द्रोपाख्यानवर्णनम्, Verse 1
७.२० विंशोऽध्यायः ।
हरिश्चन्द्रोपाख्यानवर्णनम् ।
हरिश्चन्द्र उवाच - अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् ।
प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.२० विंशोऽध्यायः ।
हरिश्चन्द्रोपाख्यानवर्णनम् ।
हरिश्चन्द्र उवाच - अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् ।
प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ १॥
सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः ।
राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ २॥
कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया ।
अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥ ३॥
स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् ।
कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ ४॥
विश्वामित्र उवाच - कुतस्ते भविता राजन् धनप्राप्तिरतः परम् ।
गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥ ५॥
वृथाशा ते महीपाल धनार्थे किं करोम्यहम् ।
निर्धनं त्वां च लोभेन पीडयामि कथं नृप ॥ ६॥
तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् ।
त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ ७॥
यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः ।
सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना ॥ ८॥
गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः ।
प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम् ॥ ९॥
मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः ।
क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ १०॥
ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो ।
दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ ११॥
गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने ।
मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर ॥ १२॥
इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः ।
उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम् ॥ १३॥
तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् ।
उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ १४॥
ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् ।
देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ १५॥
प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् ।
नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ १६॥
जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः ।
पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥ १७॥
ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् ।
तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ १८॥
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ।
इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम ॥ १९॥
येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम ।
यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि ॥ २०॥
विश्वामित्र उवाच - पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा ।
पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥ २१॥
राजोवाच - ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल ।
तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम् ॥ २२॥
विश्वामित्र उवाच - एवमस्तु महाराज आगमिष्याम्यहं पुनः ।
शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥ २३॥
इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा ।
कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ २४॥
कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम ।
प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत् ॥ २५॥
राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् ।
यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ २६॥
ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः ।
अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ २७॥
सूत उवाच - राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।
प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ २८॥
त्यज चिन्तां महाराज स्वधर्ममनुपालय ।
प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥ २९॥
नातः परतरं धर्मं वदन्ति पुरुषस्य च ।
यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ ३०॥