Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 1

७.१९ एकोनविंशोऽध्यायः ।

कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।

व्यास उवाच - इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः ।

प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप ॥ १॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 2

राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् ।

स्नानं कुरु महाभाग पितॄणां तर्पणं तथा ॥ २॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 3

कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशाम्पते ।

दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 4

प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति ।

स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 5

तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः ।

दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 6

आगमिष्यामहं मार्गदर्शनार्थं तवानघ ।

त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 7

तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् ।

वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 8

बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः ।

अवश्यम्भावियोगेन तद्वशस्तु तदाभवत् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 9

राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः ।

विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 10

यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् ।

गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 11

नादेयं मे किमप्यस्ति कृतमेतद् व्रतं पुरा ।

राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 12

तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने ।

यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि तव वाञ्छितम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 13

विश्वामित्र उवाच - मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि ।

वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 14

हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः ।

तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 15

पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा ।

अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 16

पुत्रस्य च महाभाग तदर्थं देहि मे धनम् ।

राजोवाच - विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 17

यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम् ।

व्यास उवाच - इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 18

उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् ।

कुमारः सुकामारश्च कन्या च दशवार्षिकी ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 19

एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम ।

राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 20

भविष्यति तवाद्यैव विप्रपुत्रविवाहतः ।

तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 21

तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा ।

तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 22

विश्वामित्रोऽपि राजानं वञ्चयित्वाऽऽश्रमं ययौ ।

कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 23

वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् ।

राजोवाच - किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 24

अदेयमपि संसरे यशःकामोऽस्मि साम्प्रतम् ।

व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 25

नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् ।

विश्वामित्र उवाच - राज्यं देहि महाराज वराय सपरिच्छदम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 26

गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने ।

व्यास उवाच - मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 27

दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया ।

गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 28

दक्षिणां देहि राजेन्द्र दानयोग्यां महामते ।

दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 29

तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् ।

इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 19: कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्, Verse 30

ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना ।

दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥ ३०॥