स्कन्ध 7, अध्याय 17: वसिष्ठविश्वामित्रपणवर्णनम्, Verse 1
७.१७ सप्तदशोऽध्यायः ।
वसिष्ठविश्वामित्रपणवर्णनम् ।
व्यास उवाच - रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः ।
शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.१७ सप्तदशोऽध्यायः ।
वसिष्ठविश्वामित्रपणवर्णनम् ।
व्यास उवाच - रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः ।
शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ १॥
मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् ।
जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ २॥
विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः ।
मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ ३॥
जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः ।
प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ ४॥
दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः ।
तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ ५॥
राजातिविस्मितः पादौ प्रणनाम रुजातुरः ।
बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ ६॥
हरिश्चन्द्र उवाच - देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः ।
कृतापराधः कृपणः पावितः परमेष्ठिना ॥ ७॥
मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् ।
कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ ८॥
अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया ।
वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ ९॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ १०॥
नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो ।
दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ ११॥
न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो ।
वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ १२॥
प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः ।
यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ १३॥
दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् ।
जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ १४॥
व्यास उवाच - इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च ।
दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ १५॥
वरुण उवाच - मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् ।
यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ १६॥
इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा ।
चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ १७॥
विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना ।
जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ १८॥
राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् ।
यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ १९॥
राजा त्विमं मखं पूर्णं चकार विनयान्वितः ।
शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ २०॥
भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् ।
वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ २१॥
पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् ।
भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ २२॥
इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् ।
सभ्या ऊचूः - अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ २३॥
अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः ।
अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ २४॥
तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः ।
विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ २५॥
पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः ।
अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ २६॥
अन्नदाता भयत्राता तथा विद्याप्रदश्च यः ।
तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ २७॥
तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे ।
वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ २८॥
इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् ।
सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ २९॥
शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् ।
निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ ३०॥