Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.१७ सप्तदशोऽध्यायः ।

शुकस्य राजमन्दिरप्रवेशवर्णनम् ।

सूत उवाच ।

इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः ।

बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 2

आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया ।

विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु ॥ २॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 3

विना दण्डं कथं राज्यं करोति जनकः किल ।

धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 4

धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा ।

स कथं वर्तते तात संशयोऽयं महान्मम ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 5

मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् ।

पृच्छामि त्वां महाभाग गच्छामि च परन्तप ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 6

सूत उवाच ।

तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः ।

आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 7

व्यास उवाच ।

स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते ।

सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 8

आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् ।

न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 9

सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् ।

अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 10

दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च ।

अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 11

सूत उवाच ।

इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् ।

चलितस्तरसातीव धनुर्मुक्तः शरो यथा ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 12

सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः ।

वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 13

तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् ।

योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 14

शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् ।

वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 15

वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः ।

हिमाचलं च वर्षेण जगाम मिथिलां प्रति ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 16

प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् ।

प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 17

क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः ।

किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 18

निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः ।

विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 19

प्रतीहार उवाच ।

ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः ।

चलनं च विना कार्यं न भवेदिति मे मतिः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 20

राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज ।

अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 21

तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः ।

कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 22

शुक उवाच ।

यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव ।

विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 23

मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् ।

राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 24

वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते ।

भ्रामितोऽहं महाभाग कर्मणा वा महीतले ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 25

धनाशा पुरुषस्येह परिभ्रमणकारणम् ।

सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 26

निराशस्य सुखं नित्यं यदि मोहे न मज्जति ।

निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 27

क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः ।

परिश्रमफलं किं मे वञ्चितो विधिना किल ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 28

प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् ।

उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 29

न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः ।

अप्रवेशः पुरे जातो विदेहो नाम भूपतिः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 17: शुकस्य राजमन्दिरप्रवेशवर्णनम्, Verse 30

इत्युक्त्या विररामाशु मौनीभूत इव स्थितः ।

ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः ॥ ३०॥