स्कन्ध 7, अध्याय 16: यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम्, Verse 1
७.१६ षोडशोऽध्यायः ।
यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।
व्यास उवाच - गतेऽथ वरुणे राजा रोगेणातीव पीडितः ।
दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा ॥ १॥