स्कन्ध 7, अध्याय 15: हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम्, Verse 1
७.१५ पञ्चदशोऽध्यायः ।
हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।
व्यास उवाच - प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे ।
आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ १॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.१५ पञ्चदशोऽध्यायः ।
हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।
व्यास उवाच - प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे ।
आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ १॥
स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय ।
पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ २॥
सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा ।
वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ ३॥
इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह ।
कथं हन्मि सुतं जातं जलजेन समाननम् ॥ ४॥
लोकपालः समायातो विप्रवेषेण वीर्यवान् ।
न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ ५॥
पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा ।
किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ ६॥
धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च ।
उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ ७॥
राजोवाच - देवदेव तवानुज्ञां करोमि करुणानिधे ।
वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ ८॥
पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता ।
मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ ९॥
सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् ।
कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ १०॥
व्यास उवाच - इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् ।
स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ ११॥
आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया ।
कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ १२॥
इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः ।
हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ १३॥
कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः ।
विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ १४॥
राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् ।
नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ १५॥
पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः ।
आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ १६॥
वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे ।
प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ १७॥
दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो ।
मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ १८॥
अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः ।
तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ १९॥
व्यास उवाच - इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ ।
हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ २०॥
पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् ।
आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ २१॥
भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् ।
प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ २२॥
स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः ।
करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ २३॥
बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः ।
यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ २४॥
तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् ।
कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ २५॥
तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः ।
प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ २६॥
अपि ते सर्वसामग्री वर्तते नृपतेऽधुना ।
पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ २७॥
क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि ।
तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ २८॥
अद्य गच्छामि राजेन्द्र वचनात्तव मानद ।
न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ २९॥
इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् ।
राजा परमसन्तुष्टो ननन्द भवने तदा ॥ ३०॥