स्कन्ध 7, अध्याय 14: वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम्, Verse 1
७.१४ चतुर्दशोऽध्यायः ।
वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।
व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः ।
प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.१४ चतुर्दशोऽध्यायः ।
वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।
व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः ।
प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ १॥
मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः ।
नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ २॥
गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः ।
आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ ३॥
तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः ।
नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ ४॥
पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि ।
प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ ५॥
इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः ।
ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ ६॥
दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् ।
यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ ७॥
पुण्येन मम राजेन्द्र बहुकालार्जितेन च ।
याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ ८॥
व्यास उवाच - इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः ।
उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ ९॥
उत्पत्य गगने राजा गतः शक्रपुरीं यदा ।
दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ १०॥
कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः ।
गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ ११॥
सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् ।
ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ १२॥
श्वपच क्व समायासि देवलोके जुगुप्सितः ।
याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ १३॥
इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन ।
निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ १४॥
पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् ।
पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ १५॥
तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः ।
श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ १६॥
वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः ।
मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ १७॥
विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् ।
विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ १८॥
तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः ।
तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ १९॥
किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः ।
अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ २०॥
विश्वामित्र उवाच - स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो ।
नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ २१॥
व्यास उवाच - तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः ।
तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ २२॥
दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् ।
आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ २३॥
गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः ।
विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ २४॥
हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् ।
पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ २५॥
अयोध्याधिपतिः क्रीडां चकार सह भार्यया ।
रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ २६॥
अतीतकाले युवती न सा गर्भवती ह्यभूत् ।
तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ २७॥
वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् ।
अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ २८॥
दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः ।
उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ २९॥
अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम ।
कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ ३०॥