स्कन्ध 7, अध्याय 13: त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.१३ त्रयोदशोऽध्यायः ।
त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।
राजोवाच - हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् ।
त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ १॥