स्कन्ध 7, अध्याय 12: त्रिशङ्कूपाख्यानवर्णनम्, Verse 1
७.१२ द्वादशोऽध्यायः ।
त्रिशङ्कूपाख्यानवर्णनम् ।
एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः ।
तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ १॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.१२ द्वादशोऽध्यायः ।
त्रिशङ्कूपाख्यानवर्णनम् ।
एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः ।
तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ १॥
विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् ।
अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ २॥
सलिलं सर्वतीर्थानां समानाय्य विशाम्पतिः ।
प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ ३॥
पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् ।
अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ ४॥
तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः ।
वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ ५॥
काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि ।
इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ ६॥
राजोवाच ।
पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् ।
सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ ७॥
कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः ।
कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ ८॥
न सिंहासनयोग्यो हि भवेच्छापसमन्वितः ।
मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ ९॥
एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् ।
आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ १०॥
व्यास उवाच - वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः ।
दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ ११॥
यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह ।
तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ १२॥
पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् ।
विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ १३॥
वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः ।
पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ १४॥
राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः ।
ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ १५॥
तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः ।
लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ १६॥
युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः ।
मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ १७॥
वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः ।
उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ १८॥
राजोवाच - ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद ।
विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ १९॥
इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च ।
अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ २०॥
अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने ।
देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ २१॥
याजय त्वं मखेनाशु तादृशेन महामुने ।
यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ २२॥
समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना ।
प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ २३॥
वसिष्ठ उवाच - राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः ।
मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ २४॥
तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् ।
अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ २५॥
कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि ।
व्यास उवाच - इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ २६॥
उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् ।
न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ २७॥
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् ।
तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ २८॥
शशाप भूपतिं चेति चाण्डालो भव दुर्मते ।
अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ २९॥
स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित ।
ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥ ३०॥