स्कन्ध 7, अध्याय 11: सत्यव्रताय राजनीत्युपदेशवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.११ एकादशोऽध्यायः ।
सत्यव्रताय राजनीत्युपदेशवर्णनम् ।
जनमेजय उवाच - वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः ।
कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ १॥