स्कन्ध 7, अध्याय 10: सत्यव्रताख्यानवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.१० दशमोऽध्यायः ।
सत्यव्रताख्यानवर्णनम् ।
व्यास उवाच - बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः ।
मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ १॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.१० दशमोऽध्यायः ।
सत्यव्रताख्यानवर्णनम् ।
व्यास उवाच - बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः ।
मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ १॥
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ।
इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ २॥
तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् ।
पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ ३॥
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ ४॥
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ।
पितृभक्तिरतश्चाभूद्बृहदश्वस्तदात्मजः ॥ ५॥
हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् ।
तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ ६॥
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ।
सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ ७॥
स पापात्मा विप्रभार्यां हृतवान्काममोहितः ।
विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ ८॥
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ।
ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ ९॥
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ।
किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ १०॥
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ।
तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ ११॥
ब्राह्मणा ऊचुः - राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ।
विवाहिता विप्रकन्या बलेन बलिनांवर ॥ १२॥
व्यास उवाच - श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ।
पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ १३॥
गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम ।
न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ १४॥
कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः ।
अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ १५॥
श्वपचस्य कृतं कर्म द्विजदारापहारणम् ।
तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ १६॥
नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन ।
यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ १७॥
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ।
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ १८॥
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ।
धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ १९॥
यदा निष्कासितः पित्रा कुपितेन महात्मना ।
गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ २०॥
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।
वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥ २१॥
केनचित्कारणेनाथ पिता तस्य महीपतिः ।
पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ २२॥
न ववर्ष तदा तस्मिन्विषये पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ २३॥
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ।
संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ २४॥
कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह ।
कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ २५॥
बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् ।
याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ २६॥
चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् ।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ २७॥
न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।
रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ २८॥
धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः ।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ २९॥
बालानां भरणं केन करोमि पतिना विना ।
मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ ३०॥