स्कन्ध 7, अध्याय 8: इक्ष्वाकुवंशवर्णनम्, Verse 1
७.८ अष्टमोऽध्यायः ।
इक्ष्वाकुवंशवर्णनम् ।
जनमेजय उवाच - संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ।
ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.८ अष्टमोऽध्यायः ।
इक्ष्वाकुवंशवर्णनम् ।
जनमेजय उवाच - संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ।
ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ १॥
मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे ।
ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ २॥
राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् ।
सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ ३॥
मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः ।
(मानुषेण तु देहेन ब्रह्मलोके गतिः कथं ।
) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ ४॥
एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् ।
यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ ५॥
व्यास उवाच - मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः ।
इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ ६॥
तथैव सत्यलोकश्च कैलासश्च तथा पुनः ।
वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ ७॥
यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः ।
पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ ८॥
मानुषेणैव देहेन वासवस्य च सन्निधौ ।
तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ ९॥
स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः ।
जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ १०॥
महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् ।
आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ ११॥
वायुनाम्बरमस्यास्तु दैवादपहृतं नृप ।
किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ १२॥
स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै ।
ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ १३॥
वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः ।
गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ १४॥
सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम ।
गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ १५॥
अवश्यं कृतपुण्यानां तापसानां नराधिप ।
पुण्यसद्भाव एवात्र गमने कारणं नृप ॥ १६॥
तथैव यजमानानां यज्ञेन भावितात्मनाम् ।
जनमेजय उवाच - रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ १७॥
ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा ।
ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ १८॥
तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना ।
व्यास उवाच - निशामय महीपाल राजा रेवतकः किल ॥ १९॥
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा ।
आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ २०॥
शृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः ।
समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ २१॥
दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् ।
राजोवाच - वरं कथय देवेश कन्येयं मम पुत्रिका ॥ २२॥
देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः ।
बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ २३॥
कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् ।
तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ २३॥
तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् ।
कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ २५॥
दातारं धर्मशीलं च राजपुत्रं समादिश ।
व्यास उवाच - तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ २६॥
तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् ।
ब्रह्मोवाच - राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ २७॥
ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः ।
सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ २८॥
वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता ।
सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ २९॥
उग्रसेन इति ख्यातो मथुराधिपतिः किल ।
ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ ३०॥