स्कन्ध 7, अध्याय 7: रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम्, Verse 1
७.७ सप्तमोऽध्यायः ।
रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।
व्यास उवाच - दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् ।
प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ १॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.७ सप्तमोऽध्यायः ।
रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।
व्यास उवाच - दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् ।
प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ १॥
मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि ।
वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ २॥
च्यवन उवाच - मावमंस्था महात्मानौ रूपद्रविणवर्चसा ।
यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ ३॥
ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ ४॥
इन्द्र उवाच - भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन ।
यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ ५॥
व्यास उवाच ।
अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः ।
ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ ६॥
सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ ७॥
आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् ।
वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ ८॥
वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः ।
जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ ९॥
इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् ।
पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ १०॥
प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः ।
स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ ११॥
कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः ।
जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ १२॥
तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् ।
प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ १३॥
मदो नाम महाघोरो भयदः प्राणिनामिह ।
शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ १४॥
चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् ।
इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ १५॥
बाहू पर्वतसङ्काशावायतौ क्रूरदर्शनौ ।
जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ १६॥
ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् ।
नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ १७॥
शरीरं कज्जलाभं च तस्य चास्यं भयानकम् ।
नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ १८॥
हनुरेका स्थिता तस्य भूमावेका दिवं गता ।
एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ १९॥
तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा ।
इन्द्रोऽपि भयसन्त्रस्तो युद्धाय न मनो दधे ॥ २०॥
दैत्योऽपि वदने कामं वज्रमादाय संस्थितः ।
व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ २१॥
स भक्ष्ययिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् ।
चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ २२॥
इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् ।
न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ २३॥
वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् ।
सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ २४॥
स्मरणादाजगामाशु बृहस्पतिरुदारधीः ।
गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ २५॥
विचार्य मनसा कृत्यं तमुवाच शचीपतिम् ।
दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ २६॥
असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः ।
तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ २७॥
अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया ।
शरणं याहि देवेश च्यवनस्य महात्मनः ॥ २८॥
स निवारयिता नूनं कृत्यामात्मकृतां किल ।
न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ २९॥
व्यास उवाच - इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति ।
प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ ३०॥