Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 1

७.६ षष्ठोऽध्यायः ।

च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।

जनमेजय उवाच - च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ ।

वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 2

मानुषस्य बलं कीदृग्देवराजबलं प्रति ।

निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ २॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 3

धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो ।

चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 4

व्यास उवाच - निशामय महाराज चरितं परमाद्भुतम् ।

च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 5

सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः ।

विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 6

कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् ।

पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 7

राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने ।

मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 8

गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् ।

किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 9

पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि ।

तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 10

पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् ।

अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 11

शर्यातिरुवाच - गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् ।

प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 12

व्यास उवाच - एवमुक्त्व तु शर्यातिः कामिनीं शोकसङ्कुलाम् ।

जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 13

गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः ।

नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 14

तं विलोक्यामराकारं विस्मयं नृपतिर्गतः ।

किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 15

निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः ।

कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 16

दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने ।

कुले कलङ्कः सुमहाननया मानवे कृतः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 17

धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता ।

सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 18

मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये ।

वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 19

कन्या योग्याय दातव्या पित्रा सर्वात्मना किल ।

तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 20

हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् ।

स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 21

मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया ।

लोकापवादो बलवान्दुस्त्याज्या स्नेहश‍ृङ्खला ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 22

किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः ।

सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 23

सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके ।

गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 24

किं विचारयसे राजंश्चिन्ताव्याकुलिताननः ।

उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 25

एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम ।

मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 26

व्यास उवाच - इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः ।

प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 27

राजोवाच - क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः ।

कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 28

मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि ।

नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 29

सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् ।

किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 6: च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्, Verse 30

निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना ।

दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ ३०॥