स्कन्ध 7, अध्याय 5: अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम्, Verse 1
७.५ पञ्चमोऽध्यायः ।
अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।
व्यास उवाच - तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा ।
धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.५ पञ्चमोऽध्यायः ।
अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।
व्यास उवाच - तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा ।
धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ १॥
देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ ।
सतीं मां धर्मशीलां च नैवं वदितुमर्हथः ॥ २॥
पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे ।
कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम् ॥ ३॥
द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः ।
कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः ॥ ४॥
कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् ।
असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम् ॥ ५॥
यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ ।
सुकन्याहं च शर्यातेः पतिभक्तिपरायणा ॥ ६॥
व्यास उवाच - इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् ।
तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः ॥ ७॥
राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि ।
वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ॥ ८॥
जानीहि प्रमदे नूनमावां देवभिषग्वरौ ।
युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव ॥ ९॥
ततस्त्रयाणामस्माकं पतिमेकतमं वृणु ।
समानरूपदेहानां मध्ये चातुर्यपण्डिते ॥ १०॥
सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा ।
गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥ ११॥
सुकन्योवाच - स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे ।
दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन ॥ १२॥
वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ ।
कथितं वचनं स्वामिन् पतिं ते नवयौवनम् ॥ १३॥
दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल ।
एतेन समयेनाद्य तं शृणु त्वं मयोदितम् ॥ १४॥
समावयवरूपं च करिष्यावः पतिं तव ।
तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥ १५॥
तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् ।
किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे ॥ १६॥
देवमायापि दुर्ज्ञेया न जाने कपटं तयोः ।
यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥ १७॥
च्यवन उवाच - गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते ।
आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ ॥ १८॥
क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच - एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥ १९॥
क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ ।
तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ ॥ २०॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।
रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह ॥ २१॥
अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् ।
ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः ।
तुल्यरूपा दिव्य देहा युवानः सदृशाः किल ।
दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा ॥ २३॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि ।
अस्माकमीप्सितं भद्रे पतिं त्वममलानने ॥ २४॥
यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने ।
व्यास उवाच - सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा ॥ २५॥
एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् ।
सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥ २६॥
अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् ।
किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम् ॥ २७॥
पतिं देवसुता ह्येते संशये पतितास्म्यहम् ।
इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥ २८॥
कर्तव्यं किं मया चात्र मरणं समुपागतम् ।
न मया पतिमुत्सृज्य वरणीयः कथञ्चन ॥ २९॥
देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा ।
इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम् ॥ ३०॥
दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी ।
सुकन्योवाच - शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता ॥ ३१॥