Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्

Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.४ चतुर्थोऽध्यायः ।

अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।

व्यास उवाच - गते राजनि सा बाला पतिसेवापरायणा ।

बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ १॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 2

फलान्यादाय स्वादूनि मूलानि विविधानि च ।

ददौ सा मुनये बाला पतिसेवापरायणा ॥ २॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 3

पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा ।

परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 4

तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् ।

तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 5

तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि ।

बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 6

पश्चादानीय पक्वानि फलानि च नृपात्मजा ।

भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 7

भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् ।

पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 8

गृहीतमुखवासं तं संवेश्य च शुभासने ।

गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 9

फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ ।

प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 10

पादसंवाहनं तेऽद्य करोमि यदि मन्यसे ।

एवं सेवापरा नित्यं बभूव पतितत्परा ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 11

सायं होमावसाने सा फलान्याहृत्य सुन्दरी ।

अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 12

ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया ।

सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 13

सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा ।

चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 14

पादसंवाहनं कृत्वा निशि भक्तिपरायणा ।

निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 15

शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी ।

कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 16

हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः ।

स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 17

ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् ।

समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 18

स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् ।

कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 19

आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे ।

मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 20

दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् ।

समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 21

चकारोष्णं जलं शुद्धं समानीतं सुपावनम् ।

स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 22

किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् ।

उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 23

वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते ।

विधिवद्धवनं कृत्वा देवतापूजनं कुरु ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 24

एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता ।

नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 25

अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा ।

आराधयामास मुदा च्यवनं सा शुभानना ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 26

कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ ।

च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 27

जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति ।

गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 28

तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् ।

ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 29

क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि ।

आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 7, अध्याय 4: अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्, Verse 30

पुत्री कस्य पतिः कस्ते कथमुद्यानमागता ।

एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ ३०॥